Saturday, September 29, 2007

ओतो ओतो

ओतो ओतो मोहनकेतो!
क्व नु खलु यातोऽसि?
आहूतोऽसि, नासि, कुतोऽसि?
आखुं गृह्णासि... आऽऽऽ आखुं गृह्णासि १

कोष्णं क्षीरं तवोपनीतम्
आगच्छागच्छ
आगन्तुं ते नेच्छति चित्तं
वाञ्छसि किं ब्रूहि... आऽऽऽ वाञ्छसि किं ब्रूहि २

गेहे गेहे दधिनवनीते
खादसि चौर्येण
पायं पायं पयसः पूरं
पूरितमुदरं ते... आऽऽऽ पूरितमुदरं ते ३

Saturday, September 15, 2007

संस्कृतेन पाठनं

संस्कृतेन पाठनं संस्कृताय जीवनं
संस्कृतेन पाठनं संस्कृताय अर्पणम्॥धृ॥

एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे॥१॥

चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने॥२॥

संस्कृतेन पाठनं मानसोल्लासनं
संस्कृतेन लेखनं सर्वकार्यसाधनं
संस्कृतेन भाषणं भरतवर्षभूषणम्॥३॥

Saturday, September 8, 2007

भारतभूषा संस्कृतभाषा

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये।
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे॥धृ॥

श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम्।
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मः सततं
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम्॥१॥

श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम्।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीं
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित्॥२॥

नाहं याचे हारं मानं न चापि गौरववृद्धिं
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित्।
यस्मिन्दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु॥३॥

Wednesday, August 22, 2007

कुरु समर्पणम्

शुभङ्करमिदं भारत
कुरु समर्पणम्॥धृ॥

राष्ट्रस्यैषा कीर्तिः प्रसरतु दिशि दिशीयं
चन्दनमिव सुगन्धितं भवतु हि नो जीवनम्।
साधयितुं सङ्कल्पस्यास्य हि सम्पादनं
कीर्तिविजयदं भारत कुरु समर्पणम्॥१॥

सार्थाय परार्थाय राष्ट्राय निरन्तरं
तनुधनप्राणं सिद्धं भवतु स्वकीयं सुखम्।
निर्भयेन चेतसा सगौरवं शिवास्पदं
वराभयप्रदं भारत कुरु समर्पणम्॥२॥

Tuesday, August 14, 2007

हिमगिरेः शृङ्गम्

हिमगिरेः शृङ्गं देवनदीं गङ्गाम्
मनसि निधाय हि अनुभवामः
अनुपममुत्तुङ्गं भावम् अनुपममुत्तुङ्गम्॥धृ॥

दिव्य-सनातन-संस्कृतिः यतो हि वेदपुराणानि।
हिन्दोरुन्नत्यवनत्योः सदृशानि गिरिशिखराणि।
भीरुमनस्स्वपि धीरस्वभावं जनयेयुर्हिमभवनानि॥१॥

तं सुरलोकमतिक्रम्य अवतीर्णा या भागीरथी।
भारतमातुः सङ्गेन पुण्या जाता भाग्यवती।
हिन्दुदेशे प्रतिजनमनसः पावनकारिणी पुण्यवती॥२॥

पराजयोऽपि सोपानं धैर्यं विजयस्य निधानम्।
गच्छतु दुःखितबन्धुभ्यो वक्तुं धैर्य-समाधानम्।
मातुः गौरवपरिरक्षायै निष्ठं तनुहृद्धनप्राणम्॥३॥

Tuesday, August 7, 2007

कुरुत वीराः

कुरुत वीरा कर्मधीरा मातृपदयुगवन्दनम्।
मातृवन्दनतो नितान्तम् आप्यतां परमं पदम्॥
पुनराप्यतां परमं पदम्॥धृ॥


किं नु वो मृदुमञ्जुवदने दीनतापरिलाञ्छनम्।
स्मरत यूयं वीरमुनिकुलसम्भवाः नवपल्लवाः॥१॥


त्यजत दैन्यविषादभावं सर्वश्रेयोहारकम्।
हरत सर्वजनान्तरङ्गं स्वीयविक्रमकर्मणा॥२॥



चरत धर्मपथेन पूर्वजदर्शितेन सदा मुदा।
नयत विश्वगुरुत्वमचिरादार्षभारतमातरम्॥३॥

Sunday, August 5, 2007

स्मर चिरं हे भारतीय

स्मर चिरं हे भारतीय तव पुरातनवीरचरितम्।
धर धियं हृदि मनसि धैर्यं कुरु समर्पणमात्मबुद्ध्या॥धृ॥

कलय हृदये पूर्वजानां त्यागपूरितध्येयनिष्ठाम्
प्रकुरु सकले जीवनेऽस्मिन् ज्ञानकारकतपः श्रेष्ठम्
अनुसरामो ध्येयमार्गं देशसेवनधर्मजुष्टम्॥१॥

किमुत तव हृदि संशयांशो भव्यभारतजीवचरिते
किं वृथा नरवीरकेशवतीर्थमाधवत्यागचरिते
सर्जयामो नाकतुल्यं धर्मशासितहिन्दुराष्ट्रम्॥२॥

दीयतां ते त्यागसुरभितजीवनं ननु कार्यसिद्ध्यै
कारयामो विश्वमखिलं भारतत्वसुगन्धपूर्णम्
साधयामो देववाणीं दिग्दिगन्तप्रसारिणीम्॥३॥

Saturday, August 4, 2007

जय जय हे भगवति सुरभारति

जय जय हे भगवति सुरभारति
तव चरणौ प्रणमामः।
नादब्रह्ममयि जय वागीश्वरि
शरणं ते गच्छामः॥धृ॥

त्वमसि शरण्या त्रिभुवनधन्या
सुरमुनिवन्दितचरणा।
नवरसमधुरा कवितामुखरा
स्मितरुचिरुचिराभरणा॥१॥

आसीना भव मानसहंसे
कुन्दतुहिनशशिधवले।
हर जडतां कुरु बोधिविकासं
सितपङ्कजतनुविमले॥२॥

ललितकलामयि ज्ञानविभामयि
वीणापुस्तकधारिणि।
मतिरास्तां नो तव पदकमले
अयि कुण्ठाविषहारिणि॥३॥

Friday, August 3, 2007

भारतं पुण्यास्पदं भोः!

भारतं पुण्यास्पदं भोः! पुण्यपुरुष भारत।
वन्दतां संसेवतां तां पुण्यभूमिं भारतम्॥धृ॥



त्यागशीलाद्भरत्मुनितो राष्ट्रमेतत् भारतम्।
शौर्यवान् दौष्यन्तिरासीत्तदिह देशो भारतम्।
भ्रातृदेवाद्भरतनृपतेरेष देशो भारतम्।
भासि निरताः पूर्वजा इह तद्धि देशो भारतम्॥१॥

ज्ञानकिरणाः प्रथममुदिताः ज्ञानभूमौ भारते।
शूरवीरा रेजिरेऽत्र च कर्मभूमौ भारते।
शक्तिमत्त्वं दृढमिहासीत् पुण्यभूमौ भारते।
बुद्धसिद्धाश्शुद्धसत्त्वा बहव आसन् भारते॥२॥

कर्मपूताः शक्तिदूता उद्गता इह भारतात्।
विमलकान्तिज्ञानशाखा निस्सृता इह भारतात्।
सत्यशान्त्योस्सत्प्रवृत्तिर्निर्गता इह भारतात्।
विश्वजनता सर्वमलभत सर्वमित्राद्भारतात्॥३॥

Thursday, August 2, 2007

लसति भारती भारते सदा

लसति भारती भारते सदा

चिरपुरातनी नित्यनूतना॥धृ॥



निगमनिस्सृता विश्ववन्दिता

ऋषिभिरीडिता धीप्रचोदिनी

कविभिरीरिता कल्मषापहा

रसिकरञ्जिनी ध्वान्तनाशिनी॥१॥



रघुवरप्रिया कृष्णभाषिता

सकलमानवैरादृता सदा

श्रवणमङ्गला शान्तिदायिनी

मधुरमञ्जुला देववैखरी॥२॥



पितृपितामहैर्भाषितामिमाम्

बहुविचक्षणैर्पोषितप्रभाम्

विषुधराधितां शास्त्रसम्मिताम्

दशदिशास्विमां घोषयामहै॥३॥



विपुलवैभवां देवतामिमाम्

विमलकीर्तितामर्पितुं वयम्

तनुसमर्पणं मानसार्पणम्

धनसमर्पणं कर्तुमुद्यताः॥४॥

Wednesday, August 1, 2007

मम प्रथमः प्रयत्नः

this is my first attempt at writing sanskrit poem.
ridiculous, but then, i just wrote it!!

सिन्धुजलसुजटे देवि हिममुकुटसुशोभे
तेजस्विनि शुभदे जय
यशस्विनि वरदे जय
शिवास्पदे कल्याणि वन्दे जयभूमे॥धृ॥

केसरसिक्ता तव भूः परमपवित्रा सुभगा
हिन्दुमहासागरेण रत्नप्रभाधौतपदा (धूतपदा??)
क्षीरसरित् वहति स्म स्वर्णधूम नभसि नते
शौर्यधैर्यभक्तिमुक्तिगुणगणैः समर्चिते
पूर्वगौरवो मातः परिलुप्तः कुत्राद्य
दिग्भ्रान्ताः पुत्रास्तव जागृहि दिग्दर्शनाय
हरितभूसुनीलगगनपावननदभूषे॥१॥

नतमस्तकजगदखिलं तव चरणौ पूजति स्म
वृक्षाचलसरिद्भ्यः वेदघोष एति स्म
कलाज्ञानधर्माणि हिमगिरिमत्यशेरत
धन्या तव भूमिः श्रीभगवद्गीतामृतेन
अश्रद्धोन्मत्ताः ननु नृत्यन्त्याद्यात्राम्ब
भक्तिमुक्तिश्रद्धाः दीनाः भोः ताः त्रायस्व
अरिदलसंहारिणि जगदम्ब पुण्यभूमे॥२॥

अमृतस्य पुत्राः विख्याताः लोकेऽस्मिन् भुवि
कृण्वन्तं विश्वमार्यमित्युद्घोषाः जगति
तेजोपासकाः वयं शान्तिपाठकाः धीराः
जननि त्वं हि बोधय कथमधुना विभवाः नष्टाः
कालताण्डवं तव विनष्टतेजप्राङ्गणेषु
घोरतिमिरसाम्राज्यं तव भूमेः मृत्कणेषु
पुनरपि तव जयघोषः कदा नभसि पूते॥३॥

प्रबुद्ध्यस्व दुर्गे त्वं त्यज रोषं विषादं च
पुत्रास्तव पथिभ्रष्टाः शिफे ब्रूहि धैर्यवचः
अभयदे क्षमे वसुधे नमामस्तवाङ्घ्रियुगम्
देह्याशिषमेनं जयमानशान्तिवराः स्याम
दिग्विजये खड्गधारित्यागशालिनो भवेम
देहि स्नेहचिरविवेकपापभीरुताः क्षमां च
यशोयुते शोभेरन् सर्वदिग्यशांसि ते॥४॥

सिन्धुजलसुजटे देवी हिममुकुटसुशोभे
तेजस्विनी शुभदे जय
यशस्विनी वरदे जय
शिवास्पदे कल्याणी वन्दे जयभूमे॥धृ॥