Wednesday, August 1, 2007

मम प्रथमः प्रयत्नः

this is my first attempt at writing sanskrit poem.
ridiculous, but then, i just wrote it!!

सिन्धुजलसुजटे देवि हिममुकुटसुशोभे
तेजस्विनि शुभदे जय
यशस्विनि वरदे जय
शिवास्पदे कल्याणि वन्दे जयभूमे॥धृ॥

केसरसिक्ता तव भूः परमपवित्रा सुभगा
हिन्दुमहासागरेण रत्नप्रभाधौतपदा (धूतपदा??)
क्षीरसरित् वहति स्म स्वर्णधूम नभसि नते
शौर्यधैर्यभक्तिमुक्तिगुणगणैः समर्चिते
पूर्वगौरवो मातः परिलुप्तः कुत्राद्य
दिग्भ्रान्ताः पुत्रास्तव जागृहि दिग्दर्शनाय
हरितभूसुनीलगगनपावननदभूषे॥१॥

नतमस्तकजगदखिलं तव चरणौ पूजति स्म
वृक्षाचलसरिद्भ्यः वेदघोष एति स्म
कलाज्ञानधर्माणि हिमगिरिमत्यशेरत
धन्या तव भूमिः श्रीभगवद्गीतामृतेन
अश्रद्धोन्मत्ताः ननु नृत्यन्त्याद्यात्राम्ब
भक्तिमुक्तिश्रद्धाः दीनाः भोः ताः त्रायस्व
अरिदलसंहारिणि जगदम्ब पुण्यभूमे॥२॥

अमृतस्य पुत्राः विख्याताः लोकेऽस्मिन् भुवि
कृण्वन्तं विश्वमार्यमित्युद्घोषाः जगति
तेजोपासकाः वयं शान्तिपाठकाः धीराः
जननि त्वं हि बोधय कथमधुना विभवाः नष्टाः
कालताण्डवं तव विनष्टतेजप्राङ्गणेषु
घोरतिमिरसाम्राज्यं तव भूमेः मृत्कणेषु
पुनरपि तव जयघोषः कदा नभसि पूते॥३॥

प्रबुद्ध्यस्व दुर्गे त्वं त्यज रोषं विषादं च
पुत्रास्तव पथिभ्रष्टाः शिफे ब्रूहि धैर्यवचः
अभयदे क्षमे वसुधे नमामस्तवाङ्घ्रियुगम्
देह्याशिषमेनं जयमानशान्तिवराः स्याम
दिग्विजये खड्गधारित्यागशालिनो भवेम
देहि स्नेहचिरविवेकपापभीरुताः क्षमां च
यशोयुते शोभेरन् सर्वदिग्यशांसि ते॥४॥

सिन्धुजलसुजटे देवी हिममुकुटसुशोभे
तेजस्विनी शुभदे जय
यशस्विनी वरदे जय
शिवास्पदे कल्याणी वन्दे जयभूमे॥धृ॥

3 comments:

  1. सरस्वतीदॆव्याः अनुग्रहॆण दुर्गया लिखितम् काव्यम् ?! :-)

    ReplyDelete
  2. ridiculous इति किमर्थं वदति ? यदि सर्वेषां प्रथमः यत्नः एवमेव भवेत् तर्हि संस्कृतविषये वयं निश्चिन्ततामाप्तुम् अर्हामः । एवमेव बह्वीयाः कविताः लेखनानि च लिखन्तु ।
    भवल्लेखनपठनोत्सुकः
    अविनाशः

    ReplyDelete
  3. सुन्दरमस्ति काव्यम् । अग्रे सरतु

    ReplyDelete