Thursday, August 2, 2007

लसति भारती भारते सदा

लसति भारती भारते सदा

चिरपुरातनी नित्यनूतना॥धृ॥



निगमनिस्सृता विश्ववन्दिता

ऋषिभिरीडिता धीप्रचोदिनी

कविभिरीरिता कल्मषापहा

रसिकरञ्जिनी ध्वान्तनाशिनी॥१॥



रघुवरप्रिया कृष्णभाषिता

सकलमानवैरादृता सदा

श्रवणमङ्गला शान्तिदायिनी

मधुरमञ्जुला देववैखरी॥२॥



पितृपितामहैर्भाषितामिमाम्

बहुविचक्षणैर्पोषितप्रभाम्

विषुधराधितां शास्त्रसम्मिताम्

दशदिशास्विमां घोषयामहै॥३॥



विपुलवैभवां देवतामिमाम्

विमलकीर्तितामर्पितुं वयम्

तनुसमर्पणं मानसार्पणम्

धनसमर्पणं कर्तुमुद्यताः॥४॥

No comments:

Post a Comment