Thursday, September 2, 2010

जागृहि त्वं भारतीय!

जागृहि त्वं भारतीय! प्रभातं समुपस्थितम्।
संस्कृतज्ञ प्रयामश्चल वयं राष्ट्रे जागृयाम॥

बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्।
शृणु श्रवणसुखप्रदं कविसुभाषितकलकिलकिलम्।
पश्य विश्वहितास्पदं त्यागारुणं कलयागतम्।
ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत्॥१॥

विसृज जाड्यं मोहजनितं त्यजालस्यं मानसम्।
श्रुतिस्मृतिऋषिशङ्खनादैर्दमयमन्देहासुरान्।
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम्।
भारतीसुप्रजःकार्यं मातृसेवनमाह्निकम्॥२॥

मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यताम्।
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम्।
संविभज्य ज्ञानसुफलं समैः सह सम्भुज्यताम्।
मुनिवचनकृतिशान्तिधृतिभिर्भारतश्रीः साध्यताम्॥३॥

Sunday, August 1, 2010

नमो नमोऽम्ब देववाणि!

नमो नमोऽम्ब देववाणि देवि कामपूरणि।
नमो नमोऽम्ब पाहि मां पुनीहि कामरूपिणि॥

यागधूमपाविते तपोवने निनादिनि!
पावनापगा-प्रवाह-मञ्जुनाद-योगिनि!
योगधूतपाप्मनां मुखेऽमले विलासिनि!
भोगसुन्दरापवर्ग-दायिनि, सनातनि! ॥नमो॥

चारुशब्द-सुन्दरास्य-वल्गुलास्य-मोहिनि!
व्यास-वाल्मीकि-कालिदास-भास-वासिनि!
भाव-भव्य-वाग्विलास-रङ्गमञ्चरूपिणि!
रम्यगीत-नृत्यनाट्य-मेलनेन शोभिनि! ॥नमो॥

तर्क-शब्द-शास्त्रचित्र-वाग्विनोद-रञ्जिनि!
ब्रह्मकर्मचिन्तया निगूढतत्त्वदर्शिनि!
वेदलोक-शब्दसम्पदूर्जिते मनोन्मनि!
भारतीयसंस्कृतेरुदारसारवाहिनि! ॥नमो॥

Wednesday, May 19, 2010

ग़ज़ल्

please visit http://www.speaksanskrit.org/vishvavani/vishvavANI_vol3_no3.pdf where the ghazal was originally published, and http://yaajushi.wordpress.com/2010/03/20/ as well for more discussion.



न वाञ्छा वै कृता वेच्छा सुखानां जीवने क्वापि ।
किमातिथ्यं हि दुःखस्य किमश्रूणां भयो हि स्यात्॥

न लग्नं वा मनः कुत्रापि वा नो हृद् ह्यवश्लिष्टम् ।
कुतो वाख्यानकान्येतानि श्रूयन्ते ह्यासमन्तात् ॥

न जलधिं हि न्वतिक्रान्तुं समुत्साहः कृतः प्राणैः ।
निमग्ना यद्धि नौका किं ऋते नष्टं नु सर्वस्वात् ॥

न हीष्टं वामृतत्वं च न मृत्योर्वा कृता चिन्ता ।
हन्त! पण्यायितो गन्धोऽपि चन्दनचर्चितः कस्मात् ॥

जीवनस्य लक्ष्यमेव

जीवनस्य लक्ष्यमेव लोकसेवनव्रतम् ।
सेवया हि जीवनं सार्थकं फलान्वितम् ॥ध्रु॥

अन्धकारजीवने दीपमुद्दीपयाम ।
क्लेशबहुलवीथिकाकण्टकान्युत्खनाम ।
त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम ।
न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥१॥

प्रतिजनं प्रतिपदं ध्येयमारोपयाम ।
श्रद्धया विशुद्धया दीनदेवमर्चयाम ।
स्वार्थभावनां विना सर्वमपि समर्पयाम ।
जनहितं वरप्रदं हृदि चिरं स्थापयाम ॥२॥

लोकसेवनं ध्रुवं दैवसमाराधनम् ।
दीनबन्धुसेवनान्नास्ति परं पुण्यदम् ।
कार्यतत्परा वयं साधयाम दिग्जयम् ।
वर्धतां समेधतां वृद्धिमद्धि भारतम् ॥३॥

Saturday, March 20, 2010

जय भारतजननि

भारतमाता बुधजनगीता निर्मलगङ्गाजलपूता॥

शिरसि विराजितहिमगिरिमुकुटम्।
चरणे हिन्दुमहोदधिसलिलम्।
जघने सस्यलतातरुवसनम्।
जय भारतजननि॥१॥

ऋषिवरघोषितमन्त्रपुलकिता।
कविवरगुम्फितपावनचरिता।
धीरवीरनृपशौर्यपालिता।
जय भारतजननि॥२॥

मम मनसि सदा तव पदयुगलम्।
संस्कृतसंस्कृतिसततचिन्तनम्।
भावरागलयतालमेलनम्।
जय भारतजननि॥३॥