Wednesday, May 19, 2010

जीवनस्य लक्ष्यमेव

जीवनस्य लक्ष्यमेव लोकसेवनव्रतम् ।
सेवया हि जीवनं सार्थकं फलान्वितम् ॥ध्रु॥

अन्धकारजीवने दीपमुद्दीपयाम ।
क्लेशबहुलवीथिकाकण्टकान्युत्खनाम ।
त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम ।
न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥१॥

प्रतिजनं प्रतिपदं ध्येयमारोपयाम ।
श्रद्धया विशुद्धया दीनदेवमर्चयाम ।
स्वार्थभावनां विना सर्वमपि समर्पयाम ।
जनहितं वरप्रदं हृदि चिरं स्थापयाम ॥२॥

लोकसेवनं ध्रुवं दैवसमाराधनम् ।
दीनबन्धुसेवनान्नास्ति परं पुण्यदम् ।
कार्यतत्परा वयं साधयाम दिग्जयम् ।
वर्धतां समेधतां वृद्धिमद्धि भारतम् ॥३॥

No comments:

Post a Comment