Friday, August 3, 2007

भारतं पुण्यास्पदं भोः!

भारतं पुण्यास्पदं भोः! पुण्यपुरुष भारत।
वन्दतां संसेवतां तां पुण्यभूमिं भारतम्॥धृ॥



त्यागशीलाद्भरत्मुनितो राष्ट्रमेतत् भारतम्।
शौर्यवान् दौष्यन्तिरासीत्तदिह देशो भारतम्।
भ्रातृदेवाद्भरतनृपतेरेष देशो भारतम्।
भासि निरताः पूर्वजा इह तद्धि देशो भारतम्॥१॥

ज्ञानकिरणाः प्रथममुदिताः ज्ञानभूमौ भारते।
शूरवीरा रेजिरेऽत्र च कर्मभूमौ भारते।
शक्तिमत्त्वं दृढमिहासीत् पुण्यभूमौ भारते।
बुद्धसिद्धाश्शुद्धसत्त्वा बहव आसन् भारते॥२॥

कर्मपूताः शक्तिदूता उद्गता इह भारतात्।
विमलकान्तिज्ञानशाखा निस्सृता इह भारतात्।
सत्यशान्त्योस्सत्प्रवृत्तिर्निर्गता इह भारतात्।
विश्वजनता सर्वमलभत सर्वमित्राद्भारतात्॥३॥

No comments:

Post a Comment