Saturday, September 8, 2007

भारतभूषा संस्कृतभाषा

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये।
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे॥धृ॥

श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम्।
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मः सततं
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम्॥१॥

श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम्।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीं
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित्॥२॥

नाहं याचे हारं मानं न चापि गौरववृद्धिं
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित्।
यस्मिन्दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु॥३॥

No comments:

Post a Comment