ओतो ओतो मोहनकेतो!
क्व नु खलु यातोऽसि?
आहूतोऽसि, नासि, कुतोऽसि?
आखुं गृह्णासि... आऽऽऽ आखुं गृह्णासि १
कोष्णं क्षीरं तवोपनीतम्
आगच्छागच्छ
आगन्तुं ते नेच्छति चित्तं
वाञ्छसि किं ब्रूहि... आऽऽऽ वाञ्छसि किं ब्रूहि २
गेहे गेहे दधिनवनीते
खादसि चौर्येण
पायं पायं पयसः पूरं
पूरितमुदरं ते... आऽऽऽ पूरितमुदरं ते ३
भवत्याः आह्वानं श्रुत्वा मोहनः अवश्यमेव आगमिष्यति|
ReplyDeleteभवतीं कृष्णदर्शनं सुखं ददातु|
हिमांशुः|
उत्तमरूपेण लिखितम् । साधुवादमर्हति भवती ।
ReplyDeleteमया केवलं लिखितं भोः न तु रचितम् [:)]
ReplyDeleteआदरणीया याजुषी महाभागा,
ReplyDeleteसस्नेहं नमोनमः ,
संस्कृतस्य प्रचारार्थं साम्प्रतं भवति यत् कुर्वन अस्ति वस्तुतः तत् ईश्वरीयं कार्यं एव ।अहं बहु प्रमुदितः च प्रभावितः अस्मि।संस्कृत -अश्व मेधस्य अश्वं रोध्धुं न को s पि प्रभविष्यति इति दृढं विश्वसीमि ।पुनः एक वारं अभिनन्द्य विरम्यते ।इति लेखन सीमा।
विनीतः ,
अनन्त कुलकर्णी ,पुणे ,महाराष्ट्र