Saturday, July 6, 2013

करुणानिधे प्रभो नो !

अत्रास्म्यहं पुनरेकवारं संस्कृतगीतगङ्गायां स्नातुं स्नपयितुं च सिद्धा ! प्रार्थनया प्रारभे :)

करुणानिधे प्रभो नो । दोषान् क्षमस्व भगवन्।
सुचिरात् प्रसुप्तदेशम् । परिबोधयाशु भगवन् ॥

भुविभूतसर्वभाषा । परिपूरिताभिलाषा ।
श्वसितीव देवभाषा । तां पालयस्व भगवन् ॥

आसीत् कदाचिदेषा । वाणी विशुद्धवेषा ।
अधुना लवावशेषा । तामाश्रयस्व भगवन् ॥

देशे स्वतन्त्रतायाः । प्राचीनसभ्यतायाः ॥
समयं समर्घतायाः । पुनरानयस्व भगवन् ॥

No comments:

Post a Comment