Sunday, June 8, 2008

पश्य पश्य रे आकाशे

पश्य पश्य रे आकाशे


डयते डयते महत् विमानम्॥


झुँईऽऽऽऽऽऽऽऽ झुँईऽऽऽऽऽऽऽऽऽ


नादं करोति विपुलम्॥





नीलं नीलं नीलं गगनं


हरितं हरितं हरितं तृणम्।


तुङ्गं तुङ्गं तुङ्गं शिखरं


करोति रे पारम्॥१॥





धवलम् अङ्गं गरुडाकारं


लुक्‌लुक् लुक्‌लुक् दीपकसहितम्।


गमनागमनं वायुसमेतं

करोति रे प्रतिदिनम्॥२॥