Showing posts with label रचना. Show all posts
Showing posts with label रचना. Show all posts

Sunday, July 14, 2013

भवतु नाम...!

One of the earliest translations that I attempted (भावानुवादः).

भवतु नाम नभोऽतिदूरे...
किं भोः दूरत्वात्!

सम्भूयावां रेखावः भोः
इन्द्रधनुर्गगनयिति
अहं रेखयाम्यर्धवर्तुलान्
त्वं पूरय वर्णान् ते

परं हन्त त्वं तत्र कुत्रचित्
अहमत्रास्म्यैकाकी
अशक्यमेवावयोर्मेलनम्
आकाशोऽपि सुदूरे

किन्तु स्नेहमयसेतुबन्धनम्
प्रेमामृतोद्भवम्
हस्तात् तव हि वर्णपूरितम्
शोभते नभसि नीले

मुदिता धरणी समारभत
आनन्दं नितराम्
त्यक्त्वा दुःखं विदीर्य दैवम्
इन्द्रधनुषि निर्मिते

विस्मर यद्यदशक्यमासीत्
विस्मरैन्द्रधनुरपि हि
स्निग्धा मुग्धा स्नेहभावना
आयुगमस्तु हि हृदये

भवतु नाम नभोऽतिदूरे
किं भोः दूरत्वात्...!!

The original English poem is :

I thought
We two together
Will paint a rainbow
In the sky,
I shall draw
The curves
You will fill the colours.

But you are there
And I am here
And the sky is far away.
But lovely thoughts
Built an arch
Over you and me,
And you placed
The seven colours
As they should be,
And the raw earth
Celebrated the birth
Of a celestial joy,
Shivering out
Through the debris and shambles
Of a ravaged fate.

Forget what we coukdn't
Forget the rainbow
The sweet caress of a feeling
Lingers all day,
What,
If the sky be far away!

Unfortunately I do not know the poet.

Wednesday, May 19, 2010

ग़ज़ल्

please visit http://www.speaksanskrit.org/vishvavani/vishvavANI_vol3_no3.pdf where the ghazal was originally published, and http://yaajushi.wordpress.com/2010/03/20/ as well for more discussion.



न वाञ्छा वै कृता वेच्छा सुखानां जीवने क्वापि ।
किमातिथ्यं हि दुःखस्य किमश्रूणां भयो हि स्यात्॥

न लग्नं वा मनः कुत्रापि वा नो हृद् ह्यवश्लिष्टम् ।
कुतो वाख्यानकान्येतानि श्रूयन्ते ह्यासमन्तात् ॥

न जलधिं हि न्वतिक्रान्तुं समुत्साहः कृतः प्राणैः ।
निमग्ना यद्धि नौका किं ऋते नष्टं नु सर्वस्वात् ॥

न हीष्टं वामृतत्वं च न मृत्योर्वा कृता चिन्ता ।
हन्त! पण्यायितो गन्धोऽपि चन्दनचर्चितः कस्मात् ॥

Wednesday, August 22, 2007

कुरु समर्पणम्

शुभङ्करमिदं भारत
कुरु समर्पणम्॥धृ॥

राष्ट्रस्यैषा कीर्तिः प्रसरतु दिशि दिशीयं
चन्दनमिव सुगन्धितं भवतु हि नो जीवनम्।
साधयितुं सङ्कल्पस्यास्य हि सम्पादनं
कीर्तिविजयदं भारत कुरु समर्पणम्॥१॥

सार्थाय परार्थाय राष्ट्राय निरन्तरं
तनुधनप्राणं सिद्धं भवतु स्वकीयं सुखम्।
निर्भयेन चेतसा सगौरवं शिवास्पदं
वराभयप्रदं भारत कुरु समर्पणम्॥२॥

Wednesday, August 1, 2007

मम प्रथमः प्रयत्नः

this is my first attempt at writing sanskrit poem.
ridiculous, but then, i just wrote it!!

सिन्धुजलसुजटे देवि हिममुकुटसुशोभे
तेजस्विनि शुभदे जय
यशस्विनि वरदे जय
शिवास्पदे कल्याणि वन्दे जयभूमे॥धृ॥

केसरसिक्ता तव भूः परमपवित्रा सुभगा
हिन्दुमहासागरेण रत्नप्रभाधौतपदा (धूतपदा??)
क्षीरसरित् वहति स्म स्वर्णधूम नभसि नते
शौर्यधैर्यभक्तिमुक्तिगुणगणैः समर्चिते
पूर्वगौरवो मातः परिलुप्तः कुत्राद्य
दिग्भ्रान्ताः पुत्रास्तव जागृहि दिग्दर्शनाय
हरितभूसुनीलगगनपावननदभूषे॥१॥

नतमस्तकजगदखिलं तव चरणौ पूजति स्म
वृक्षाचलसरिद्भ्यः वेदघोष एति स्म
कलाज्ञानधर्माणि हिमगिरिमत्यशेरत
धन्या तव भूमिः श्रीभगवद्गीतामृतेन
अश्रद्धोन्मत्ताः ननु नृत्यन्त्याद्यात्राम्ब
भक्तिमुक्तिश्रद्धाः दीनाः भोः ताः त्रायस्व
अरिदलसंहारिणि जगदम्ब पुण्यभूमे॥२॥

अमृतस्य पुत्राः विख्याताः लोकेऽस्मिन् भुवि
कृण्वन्तं विश्वमार्यमित्युद्घोषाः जगति
तेजोपासकाः वयं शान्तिपाठकाः धीराः
जननि त्वं हि बोधय कथमधुना विभवाः नष्टाः
कालताण्डवं तव विनष्टतेजप्राङ्गणेषु
घोरतिमिरसाम्राज्यं तव भूमेः मृत्कणेषु
पुनरपि तव जयघोषः कदा नभसि पूते॥३॥

प्रबुद्ध्यस्व दुर्गे त्वं त्यज रोषं विषादं च
पुत्रास्तव पथिभ्रष्टाः शिफे ब्रूहि धैर्यवचः
अभयदे क्षमे वसुधे नमामस्तवाङ्घ्रियुगम्
देह्याशिषमेनं जयमानशान्तिवराः स्याम
दिग्विजये खड्गधारित्यागशालिनो भवेम
देहि स्नेहचिरविवेकपापभीरुताः क्षमां च
यशोयुते शोभेरन् सर्वदिग्यशांसि ते॥४॥

सिन्धुजलसुजटे देवी हिममुकुटसुशोभे
तेजस्विनी शुभदे जय
यशस्विनी वरदे जय
शिवास्पदे कल्याणी वन्दे जयभूमे॥धृ॥