सादरं समीहतां वन्दना विधीयताम्।
श्रद्धया स्वमातृभूसमर्चना विधीयताम्॥
आपदो भवन्तु वा विद्युतो लसन्तु वा।
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा।
धीरता न हीयतां वीरता विधीयताम्
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥१॥
प्राणदायिनीयं त्राणदायिनीयम्।
शक्तिमुक्तिभक्तिदा सुधाप्रदायिनीयम्।
एतदीयवन्दने सेवनेऽभिनन्दने।
साभिमानमात्मनो जीवनं प्रदीयताम्॥२॥