Friday, September 26, 2014

अर्धनारीश्वराष्टकम्

॥अथ अर्धनारीश्वराष्टकम्॥

अम्भोधरश्यामलकुन्तलायै तटितप्रभाताम्रजटाधराय।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय॥१॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय।
शिवप्रियायै च शवप्रियाय... ॥२॥

मन्दारमालाकुलितालकायै कपालमालाङ्कितकन्धराय।
दिव्याम्बरायै च दिगम्बराय...॥३॥

कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय।
कृतस्मरायै विकृतस्मराय... ॥४॥

पादारविन्दार्प्पितहंसकायै पादाब्जराजत्फणिनूपुराय।
कलामयायै विकलामयाय... ॥५॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय।
समेक्षणायै विषमेक्षणाय... ॥६॥

प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय।
जगज्जनन्यै जगदेकपित्रे... ॥७॥

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्सु।
सर्वं गतायै सकलं गताय... ॥८॥

अर्द्धनारीश्वरस्तोत्रम् उपमन्युकृतं त्विदम्।
यः पठेच्छृणुयाद्वापि शिवलोके महीयते॥९॥

॥इति उपमन्युकृतम् अर्धनारीश्वराष्टकम्॥

Sunday, July 14, 2013

भवतु नाम...!

One of the earliest translations that I attempted (भावानुवादः).

भवतु नाम नभोऽतिदूरे...
किं भोः दूरत्वात्!

सम्भूयावां रेखावः भोः
इन्द्रधनुर्गगनयिति
अहं रेखयाम्यर्धवर्तुलान्
त्वं पूरय वर्णान् ते

परं हन्त त्वं तत्र कुत्रचित्
अहमत्रास्म्यैकाकी
अशक्यमेवावयोर्मेलनम्
आकाशोऽपि सुदूरे

किन्तु स्नेहमयसेतुबन्धनम्
प्रेमामृतोद्भवम्
हस्तात् तव हि वर्णपूरितम्
शोभते नभसि नीले

मुदिता धरणी समारभत
आनन्दं नितराम्
त्यक्त्वा दुःखं विदीर्य दैवम्
इन्द्रधनुषि निर्मिते

विस्मर यद्यदशक्यमासीत्
विस्मरैन्द्रधनुरपि हि
स्निग्धा मुग्धा स्नेहभावना
आयुगमस्तु हि हृदये

भवतु नाम नभोऽतिदूरे
किं भोः दूरत्वात्...!!

The original English poem is :

I thought
We two together
Will paint a rainbow
In the sky,
I shall draw
The curves
You will fill the colours.

But you are there
And I am here
And the sky is far away.
But lovely thoughts
Built an arch
Over you and me,
And you placed
The seven colours
As they should be,
And the raw earth
Celebrated the birth
Of a celestial joy,
Shivering out
Through the debris and shambles
Of a ravaged fate.

Forget what we coukdn't
Forget the rainbow
The sweet caress of a feeling
Lingers all day,
What,
If the sky be far away!

Unfortunately I do not know the poet.

Saturday, July 6, 2013

करुणानिधे प्रभो नो !

अत्रास्म्यहं पुनरेकवारं संस्कृतगीतगङ्गायां स्नातुं स्नपयितुं च सिद्धा ! प्रार्थनया प्रारभे :)

करुणानिधे प्रभो नो । दोषान् क्षमस्व भगवन्।
सुचिरात् प्रसुप्तदेशम् । परिबोधयाशु भगवन् ॥

भुविभूतसर्वभाषा । परिपूरिताभिलाषा ।
श्वसितीव देवभाषा । तां पालयस्व भगवन् ॥

आसीत् कदाचिदेषा । वाणी विशुद्धवेषा ।
अधुना लवावशेषा । तामाश्रयस्व भगवन् ॥

देशे स्वतन्त्रतायाः । प्राचीनसभ्यतायाः ॥
समयं समर्घतायाः । पुनरानयस्व भगवन् ॥

Sunday, April 1, 2012

सादरं समीहताम्


सादरं समीहतां वन्दना विधीयताम्।
श्रद्धया स्वमातृभूसमर्चना विधीयताम्॥

आपदो भवन्तु वा विद्युतो लसन्तु वा।
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा।
धीरता न हीयतां वीरता विधीयताम्
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥१॥

प्राणदायिनीयं त्राणदायिनीयम्।
शक्तिमुक्तिभक्तिदा सुधाप्रदायिनीयम्।
एतदीयवन्दने सेवनेऽभिनन्दने।
साभिमानमात्मनो जीवनं प्रदीयताम्॥२॥

Wednesday, February 2, 2011

भूमिरियं बलिदानस्य (आओ बच्चों तुम्हें दिखाएँ...)

एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।
अस्य मृत्तिका शिरसा वन्द्या भूमिरियं बलिदानस्य।
वन्दे मातरं वन्दे मातरम्॥

उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः
दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः।
पश्यत गङ्गायमुनातीरं परं पावनं भूलोके
स्थाने स्थाने यद्दिव्यत्वं नैव सुराणामपि नाके
एकमेव तत् स्थानं चैतत् देवानामवतारस्य॥अस्य॥

रजपूतानामेतत् स्थानं खड्गे येषामभिमानः
धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः।
अत्रैवासीत् प्रतापवीरो विश्वेऽस्मिन् यो बहुमान्यः
शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः
रजः सुपूतं वीरपदाब्जैः स्थानं चैतद्देशस्य॥अस्य॥

वङ्गोयं यद्धरणीहरिता मनोहारिणी सर्वत्र
निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र।
रामकृष्ण-गौराङ्ग-विवेकानन्द-प्रमुखाः यत्रासन्
अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्रासन्
जन्मभूरियं ’नेताजेः’ प्रख्यातस्य सुभाषस्य॥अस्य॥

इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी राजासीत्
यस्य भवानीकरवालेन म्लेच्छानां संहारोऽभूत्।
स्थाने स्थाने पर्वतभागे सामर्थ्याग्निः प्रकटोऽभूत्
घोषो ’हर हर महादेव’ इति बाले बाले प्राविरभूत्
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य॥अस्य॥

भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्टः
गगनस्पर्धित-शिल्पकलान्वित-गोपुरभालैर्विभूषितः।
अत्र विद्यते सुजनस्थानं सीतापति-पदपरिपूतम्।
अत्र शङ्कराचार्याः वन्द्याः केरलभागे सम्भूताः।
विजयनगर-साम्राज्यमिहासीत् ख्यातं हिन्दुस्थानस्य॥अस्य॥

Thursday, September 2, 2010

जागृहि त्वं भारतीय!

जागृहि त्वं भारतीय! प्रभातं समुपस्थितम्।
संस्कृतज्ञ प्रयामश्चल वयं राष्ट्रे जागृयाम॥

बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्।
शृणु श्रवणसुखप्रदं कविसुभाषितकलकिलकिलम्।
पश्य विश्वहितास्पदं त्यागारुणं कलयागतम्।
ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत्॥१॥

विसृज जाड्यं मोहजनितं त्यजालस्यं मानसम्।
श्रुतिस्मृतिऋषिशङ्खनादैर्दमयमन्देहासुरान्।
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम्।
भारतीसुप्रजःकार्यं मातृसेवनमाह्निकम्॥२॥

मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यताम्।
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम्।
संविभज्य ज्ञानसुफलं समैः सह सम्भुज्यताम्।
मुनिवचनकृतिशान्तिधृतिभिर्भारतश्रीः साध्यताम्॥३॥

Sunday, August 1, 2010

नमो नमोऽम्ब देववाणि!

नमो नमोऽम्ब देववाणि देवि कामपूरणि।
नमो नमोऽम्ब पाहि मां पुनीहि कामरूपिणि॥

यागधूमपाविते तपोवने निनादिनि!
पावनापगा-प्रवाह-मञ्जुनाद-योगिनि!
योगधूतपाप्मनां मुखेऽमले विलासिनि!
भोगसुन्दरापवर्ग-दायिनि, सनातनि! ॥नमो॥

चारुशब्द-सुन्दरास्य-वल्गुलास्य-मोहिनि!
व्यास-वाल्मीकि-कालिदास-भास-वासिनि!
भाव-भव्य-वाग्विलास-रङ्गमञ्चरूपिणि!
रम्यगीत-नृत्यनाट्य-मेलनेन शोभिनि! ॥नमो॥

तर्क-शब्द-शास्त्रचित्र-वाग्विनोद-रञ्जिनि!
ब्रह्मकर्मचिन्तया निगूढतत्त्वदर्शिनि!
वेदलोक-शब्दसम्पदूर्जिते मनोन्मनि!
भारतीयसंस्कृतेरुदारसारवाहिनि! ॥नमो॥

Wednesday, May 19, 2010

ग़ज़ल्

please visit http://www.speaksanskrit.org/vishvavani/vishvavANI_vol3_no3.pdf where the ghazal was originally published, and http://yaajushi.wordpress.com/2010/03/20/ as well for more discussion.



न वाञ्छा वै कृता वेच्छा सुखानां जीवने क्वापि ।
किमातिथ्यं हि दुःखस्य किमश्रूणां भयो हि स्यात्॥

न लग्नं वा मनः कुत्रापि वा नो हृद् ह्यवश्लिष्टम् ।
कुतो वाख्यानकान्येतानि श्रूयन्ते ह्यासमन्तात् ॥

न जलधिं हि न्वतिक्रान्तुं समुत्साहः कृतः प्राणैः ।
निमग्ना यद्धि नौका किं ऋते नष्टं नु सर्वस्वात् ॥

न हीष्टं वामृतत्वं च न मृत्योर्वा कृता चिन्ता ।
हन्त! पण्यायितो गन्धोऽपि चन्दनचर्चितः कस्मात् ॥

जीवनस्य लक्ष्यमेव

जीवनस्य लक्ष्यमेव लोकसेवनव्रतम् ।
सेवया हि जीवनं सार्थकं फलान्वितम् ॥ध्रु॥

अन्धकारजीवने दीपमुद्दीपयाम ।
क्लेशबहुलवीथिकाकण्टकान्युत्खनाम ।
त्रस्तदीनबान्धवान् हस्तलम्बमुन्नयाम ।
न्यूनता यत्र यत्र तत्र सत्वरं हि याम ॥१॥

प्रतिजनं प्रतिपदं ध्येयमारोपयाम ।
श्रद्धया विशुद्धया दीनदेवमर्चयाम ।
स्वार्थभावनां विना सर्वमपि समर्पयाम ।
जनहितं वरप्रदं हृदि चिरं स्थापयाम ॥२॥

लोकसेवनं ध्रुवं दैवसमाराधनम् ।
दीनबन्धुसेवनान्नास्ति परं पुण्यदम् ।
कार्यतत्परा वयं साधयाम दिग्जयम् ।
वर्धतां समेधतां वृद्धिमद्धि भारतम् ॥३॥

Saturday, March 20, 2010

जय भारतजननि

भारतमाता बुधजनगीता निर्मलगङ्गाजलपूता॥

शिरसि विराजितहिमगिरिमुकुटम्।
चरणे हिन्दुमहोदधिसलिलम्।
जघने सस्यलतातरुवसनम्।
जय भारतजननि॥१॥

ऋषिवरघोषितमन्त्रपुलकिता।
कविवरगुम्फितपावनचरिता।
धीरवीरनृपशौर्यपालिता।
जय भारतजननि॥२॥

मम मनसि सदा तव पदयुगलम्।
संस्कृतसंस्कृतिसततचिन्तनम्।
भावरागलयतालमेलनम्।
जय भारतजननि॥३॥

Sunday, June 8, 2008

पश्य पश्य रे आकाशे

पश्य पश्य रे आकाशे


डयते डयते महत् विमानम्॥


झुँईऽऽऽऽऽऽऽऽ झुँईऽऽऽऽऽऽऽऽऽ


नादं करोति विपुलम्॥





नीलं नीलं नीलं गगनं


हरितं हरितं हरितं तृणम्।


तुङ्गं तुङ्गं तुङ्गं शिखरं


करोति रे पारम्॥१॥





धवलम् अङ्गं गरुडाकारं


लुक्‌लुक् लुक्‌लुक् दीपकसहितम्।


गमनागमनं वायुसमेतं

करोति रे प्रतिदिनम्॥२॥

Saturday, September 29, 2007

ओतो ओतो

ओतो ओतो मोहनकेतो!
क्व नु खलु यातोऽसि?
आहूतोऽसि, नासि, कुतोऽसि?
आखुं गृह्णासि... आऽऽऽ आखुं गृह्णासि १

कोष्णं क्षीरं तवोपनीतम्
आगच्छागच्छ
आगन्तुं ते नेच्छति चित्तं
वाञ्छसि किं ब्रूहि... आऽऽऽ वाञ्छसि किं ब्रूहि २

गेहे गेहे दधिनवनीते
खादसि चौर्येण
पायं पायं पयसः पूरं
पूरितमुदरं ते... आऽऽऽ पूरितमुदरं ते ३

Saturday, September 15, 2007

संस्कृतेन पाठनं

संस्कृतेन पाठनं संस्कृताय जीवनं
संस्कृतेन पाठनं संस्कृताय अर्पणम्॥धृ॥

एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे॥१॥

चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने॥२॥

संस्कृतेन पाठनं मानसोल्लासनं
संस्कृतेन लेखनं सर्वकार्यसाधनं
संस्कृतेन भाषणं भरतवर्षभूषणम्॥३॥

Saturday, September 8, 2007

भारतभूषा संस्कृतभाषा

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये।
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे॥धृ॥

श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम्।
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मः सततं
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम्॥१॥

श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम्।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीं
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित्॥२॥

नाहं याचे हारं मानं न चापि गौरववृद्धिं
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित्।
यस्मिन्दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु॥३॥

Wednesday, August 22, 2007

कुरु समर्पणम्

शुभङ्करमिदं भारत
कुरु समर्पणम्॥धृ॥

राष्ट्रस्यैषा कीर्तिः प्रसरतु दिशि दिशीयं
चन्दनमिव सुगन्धितं भवतु हि नो जीवनम्।
साधयितुं सङ्कल्पस्यास्य हि सम्पादनं
कीर्तिविजयदं भारत कुरु समर्पणम्॥१॥

सार्थाय परार्थाय राष्ट्राय निरन्तरं
तनुधनप्राणं सिद्धं भवतु स्वकीयं सुखम्।
निर्भयेन चेतसा सगौरवं शिवास्पदं
वराभयप्रदं भारत कुरु समर्पणम्॥२॥

Tuesday, August 14, 2007

हिमगिरेः शृङ्गम्

हिमगिरेः शृङ्गं देवनदीं गङ्गाम्
मनसि निधाय हि अनुभवामः
अनुपममुत्तुङ्गं भावम् अनुपममुत्तुङ्गम्॥धृ॥

दिव्य-सनातन-संस्कृतिः यतो हि वेदपुराणानि।
हिन्दोरुन्नत्यवनत्योः सदृशानि गिरिशिखराणि।
भीरुमनस्स्वपि धीरस्वभावं जनयेयुर्हिमभवनानि॥१॥

तं सुरलोकमतिक्रम्य अवतीर्णा या भागीरथी।
भारतमातुः सङ्गेन पुण्या जाता भाग्यवती।
हिन्दुदेशे प्रतिजनमनसः पावनकारिणी पुण्यवती॥२॥

पराजयोऽपि सोपानं धैर्यं विजयस्य निधानम्।
गच्छतु दुःखितबन्धुभ्यो वक्तुं धैर्य-समाधानम्।
मातुः गौरवपरिरक्षायै निष्ठं तनुहृद्धनप्राणम्॥३॥

Tuesday, August 7, 2007

कुरुत वीराः

कुरुत वीरा कर्मधीरा मातृपदयुगवन्दनम्।
मातृवन्दनतो नितान्तम् आप्यतां परमं पदम्॥
पुनराप्यतां परमं पदम्॥धृ॥


किं नु वो मृदुमञ्जुवदने दीनतापरिलाञ्छनम्।
स्मरत यूयं वीरमुनिकुलसम्भवाः नवपल्लवाः॥१॥


त्यजत दैन्यविषादभावं सर्वश्रेयोहारकम्।
हरत सर्वजनान्तरङ्गं स्वीयविक्रमकर्मणा॥२॥



चरत धर्मपथेन पूर्वजदर्शितेन सदा मुदा।
नयत विश्वगुरुत्वमचिरादार्षभारतमातरम्॥३॥

Sunday, August 5, 2007

स्मर चिरं हे भारतीय

स्मर चिरं हे भारतीय तव पुरातनवीरचरितम्।
धर धियं हृदि मनसि धैर्यं कुरु समर्पणमात्मबुद्ध्या॥धृ॥

कलय हृदये पूर्वजानां त्यागपूरितध्येयनिष्ठाम्
प्रकुरु सकले जीवनेऽस्मिन् ज्ञानकारकतपः श्रेष्ठम्
अनुसरामो ध्येयमार्गं देशसेवनधर्मजुष्टम्॥१॥

किमुत तव हृदि संशयांशो भव्यभारतजीवचरिते
किं वृथा नरवीरकेशवतीर्थमाधवत्यागचरिते
सर्जयामो नाकतुल्यं धर्मशासितहिन्दुराष्ट्रम्॥२॥

दीयतां ते त्यागसुरभितजीवनं ननु कार्यसिद्ध्यै
कारयामो विश्वमखिलं भारतत्वसुगन्धपूर्णम्
साधयामो देववाणीं दिग्दिगन्तप्रसारिणीम्॥३॥

Saturday, August 4, 2007

जय जय हे भगवति सुरभारति

जय जय हे भगवति सुरभारति
तव चरणौ प्रणमामः।
नादब्रह्ममयि जय वागीश्वरि
शरणं ते गच्छामः॥धृ॥

त्वमसि शरण्या त्रिभुवनधन्या
सुरमुनिवन्दितचरणा।
नवरसमधुरा कवितामुखरा
स्मितरुचिरुचिराभरणा॥१॥

आसीना भव मानसहंसे
कुन्दतुहिनशशिधवले।
हर जडतां कुरु बोधिविकासं
सितपङ्कजतनुविमले॥२॥

ललितकलामयि ज्ञानविभामयि
वीणापुस्तकधारिणि।
मतिरास्तां नो तव पदकमले
अयि कुण्ठाविषहारिणि॥३॥

Friday, August 3, 2007

भारतं पुण्यास्पदं भोः!

भारतं पुण्यास्पदं भोः! पुण्यपुरुष भारत।
वन्दतां संसेवतां तां पुण्यभूमिं भारतम्॥धृ॥



त्यागशीलाद्भरत्मुनितो राष्ट्रमेतत् भारतम्।
शौर्यवान् दौष्यन्तिरासीत्तदिह देशो भारतम्।
भ्रातृदेवाद्भरतनृपतेरेष देशो भारतम्।
भासि निरताः पूर्वजा इह तद्धि देशो भारतम्॥१॥

ज्ञानकिरणाः प्रथममुदिताः ज्ञानभूमौ भारते।
शूरवीरा रेजिरेऽत्र च कर्मभूमौ भारते।
शक्तिमत्त्वं दृढमिहासीत् पुण्यभूमौ भारते।
बुद्धसिद्धाश्शुद्धसत्त्वा बहव आसन् भारते॥२॥

कर्मपूताः शक्तिदूता उद्गता इह भारतात्।
विमलकान्तिज्ञानशाखा निस्सृता इह भारतात्।
सत्यशान्त्योस्सत्प्रवृत्तिर्निर्गता इह भारतात्।
विश्वजनता सर्वमलभत सर्वमित्राद्भारतात्॥३॥