Thursday, September 2, 2010

जागृहि त्वं भारतीय!

जागृहि त्वं भारतीय! प्रभातं समुपस्थितम्।
संस्कृतज्ञ प्रयामश्चल वयं राष्ट्रे जागृयाम॥

बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्।
शृणु श्रवणसुखप्रदं कविसुभाषितकलकिलकिलम्।
पश्य विश्वहितास्पदं त्यागारुणं कलयागतम्।
ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत्॥१॥

विसृज जाड्यं मोहजनितं त्यजालस्यं मानसम्।
श्रुतिस्मृतिऋषिशङ्खनादैर्दमयमन्देहासुरान्।
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम्।
भारतीसुप्रजःकार्यं मातृसेवनमाह्निकम्॥२॥

मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यताम्।
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम्।
संविभज्य ज्ञानसुफलं समैः सह सम्भुज्यताम्।
मुनिवचनकृतिशान्तिधृतिभिर्भारतश्रीः साध्यताम्॥३॥